(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.42. अध्यायः 042
Mahabharata - Adi Parva - Chapter Topics
शृङ्गिशमीकसवादः॥ 1 ॥ शमीकप्रेषितेन गौरमुखाख्यशिष्येण सह परिक्षित्संवादः॥ 2 ॥
मन्त्रिभिः सह राज्ञं विचारः॥ 3 ॥
तक्षककाश्यपसंवादः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

शृङ्ग्युवाच। 1-42-0x(199)(1849)
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्।
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्॥ 1-42-1(1850)
नैवान्यथेदं भविता पितरेष ब्रवीमि ते।
नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्॥ 1-42-2(1851)
शमीक उवाच। 1-42-3x(200)
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति॥ 1-42-3(1852)
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः॥ 1-42-4(1853)
किं पुनर्बाल एव त्वं तपसा भावितः सदा।
वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम्॥ 1-42-5(1854)
`उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया।'
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर।
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्॥ 1-42-6(1855)
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्।
चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि॥ 1-42-7(1856)
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते॥ 1-42-8(1857)
शम एव यतीनां हि क्षमिणां सिद्धिकारकः।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ 1-42-9(1858)
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्॥ 1-42-10(1859)
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै।
तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै॥ 1-42-11(1860)
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा॥ 1-42-12(1861)
सौतिरुवाच। 1-42-13x(201)
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः।
परिक्षिते नृपतये दयापन्नो महातपाः॥ 1-42-13(1862)
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्॥ 1-42-14(1863)
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्।
विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः॥ 1-42-15(1864)
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा।
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः॥ 1-42-16(1865)
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ।
शमीको नाम राजेन्द्र वर्तते विषये तव॥ 1-42-17(1866)
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः।
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः॥ 1-42-18(1867)
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे॥ 1-42-19(1868)
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै।
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति॥ 1-42-20(1869)
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत॥ 1-42-21(1870)
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना॥ 1-42-22(1871)
सातिरुवाच। 1-42-23x(202)
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः॥ 1-42-23(1872)
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा।
भूय एवाभवद्राजा शोकसंतप्तमानसः॥ 1-42-24(1873)
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च।
पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः॥ 1-42-25(1874)
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्॥ 1-42-26(1875)
ततस्तं प्रेषयामास राजा गौरमुखं तदा।
भूयः प्रसादं भगवान्करोत्विह ममेति वै॥ 1-42-27(1876)
`श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा।
समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः॥' 1-42-28(1877)
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः॥ 1-42-29(1878)
संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम्॥ 1-42-30(1879)
रक्षां च विदधे तत्र भिषजश्चौषधानि च।
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्॥ 1-42-31(1880)
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥ 1-42-32(1881)
न चैनं कश्चिदारूढं लभते राजसत्तमम्।
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते॥ 1-42-33(1882)
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्॥ 1-42-34(1883)
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्॥ 1-42-35(1884)
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्॥ 1-42-36(1885)
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः॥ 1-42-37(1886)
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्।
क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति॥ 1-42-38(1887)
काश्यप उवाच। 1-42-39x(203)
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्।
तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति॥ 1-42-39(1888)
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम्।
पाण्डवानां कुलकरं राजानममितौजसम्। 1-42-4oc गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम्॥ 1-42-40(1889)
`विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः।
अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने॥' 1-42-41(1890)
तक्षक उवाच। 1-42-42x(204)
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्॥ 1-42-42(1891)
काश्यप उवाच। 1-42-43x(205)
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्।
करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता॥ ॥ 1-42-43(1892)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-42-2 स्वैरेष्वपि परिहासादिष्वपि॥ 1-42-4 वयस्थोऽपि प्रौढोपि। वाच्यः शास्यः॥ 1-42-5 प्रभवतां योगैश्वर्यवताम्॥ 1-42-8 यतीनां आमुष्मिकहितार्थं यतमानानाम्॥ 1-42-10 समनन्तरान् प्रत्यासन्नान्॥ 1-42-11 संदेशहरमिति शेषः॥ 1-42-19 न चक्षमे न क्षान्तवान्॥ 1-42-23 पापं कृत्वैव पर्यतप्यत नतु मृत्युं श्रुत्वा॥ 1-42-33 आरूढं प्रासादारूढम्॥ 1-42-43 नृपतिं गत्वा नृपतिं नागेति पाठान्तरम्॥ द्विचत्वारिंशोऽध्यायः॥ 42 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.